आरती संग्रह

श्री गणेश

कवच -

आरती संग्रह
कवच -

गणेश कवच

गणेश कवच

एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ।

अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥


दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः ।

अतोस्य कंठे किंचित्त्यं रक्षां संबद्धुमर्हसि ॥ २ ॥


ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे

त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई

द्वापरेतु गजाननं युगभुजं रक्तांगरागं विभुम् तुर्ये

तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥ ३ ॥


विनायक श्शिखांपातु परमात्मा परात्परः ।

अतिसुंदर कायस्तु मस्तकं सुमहोत्कटः ॥ ४ ॥


ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ।

नयने बालचंद्रस्तु गजास्यस्त्योष्ठ पल्लवौ ॥ ५ ॥


जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः ।

वाचं विनायकः पातु दंतान्‌ रक्षतु दुर्मुखः ॥ ६ ॥


श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थदः ।

गणेशस्तु मुखं पातु कंठं पातु गणाधिपः ॥ ७ ॥


स्कंधौ पातु गजस्कंधः स्तने विघ्नविनाशनः ।

हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८ ॥


धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः ।

लिंगं गुह्यं सदा पातु वक्रतुंडो महाबलः ॥ ९ ॥


गजक्रीडो जानु जंघो ऊरू मंगलकीर्तिमान् ।

एकदंतो महाबुद्धिः पादौ गुल्फौ सदावतु ॥ १० ॥


क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः ।

अंगुलीश्च नखान् पातु पद्महस्तो रिनाशनः ॥ ११ ॥


सर्वांगानि मयूरेशो विश्वव्यापी सदावतु ।

अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु ॥ १२ ॥


आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु ।

प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ १३ ॥


दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः ।

प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ॥ १४ ॥


कौबेर्यां निधिपः पायादीशान्याविशनंदनः ।

दिवाव्यादेकदंत स्तु रात्रौ संध्यासु यःविघ्नहृत् ॥ १५ ॥


राक्षसासुर बेताल ग्रह भूत पिशाचतः ।

पाशांकुशधरः पातु रजस्सत्त्वतमस्स्मृतीः ॥ १६ ॥


ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् । ई

वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् ॥ १७ ॥


सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा ।

कपिलो जानुकं पातु गजाश्वान् विकटोवतु ॥ १८ ॥


भूर्जपत्रे लिखित्वेदं यः कंठे धारयेत् सुधीः ।

न भयं जायते तस्य यक्ष रक्षः पिशाचतः ॥ १९ ॥


त्रिसंध्यं जपते यस्तु वज्रसार तनुर्भवेत् ।

यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २० ॥


युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् ।

मारणोच्चाटनाकर्ष स्तंभ मोहन कर्मणि ॥ २१ ॥


सप्तवारं जपेदेतद्दनानामेकविंशतिः ।

तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ २२ ॥


एकविंशतिवारं च पठेत्तावद्दिनानि यः ।

कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत् ॥ २३ ॥


राजदर्शन वेलायां पठेदेतत् त्रिवारतः ।

स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४ ॥


इदं गणेशकवचं कश्यपेन सविरितम् ।

मुद्गलाय च ते नाथ मांडव्याय महर्षये ॥ २५ ॥


मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् ।

न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६ ॥


अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् ।

राक्षसासुर बेताल दैत्य दानव संभवाः ॥ २७ ॥


॥ इति श्री गणेशपुराणे श्री गणेश कवचं संपूर्णम् ॥